Sukta 10.34
द्वेष्टि श्वश्रूरप जाया रुणद्धि न नाथितो विन्दते मर्डितारम् । अश्वस्येव जरतो वस्न्यस्य नाहं विन्दामि कितवस्य भोगम् ॥
द्वेष्टि॑ श्व॒श्रूरप॑ जा॒या रु॑णद्धि॒ न ना॑थि॒तो वि॑न्दते मर्डि॒तार॑म् । अश्व॑स्येव॒ जर॑तो॒ वस्न्य॑स्य॒ नाहं वि॑न्दामि कित॒वस्य॒ भोग॑म् ॥
dvéṣṭi śvaśrū́r ápa jāyā́ ruṇaddhi ná nāthitó vindate marḍitā́ram | áśvasyeva járato vásnyasya náhaṃ vindāmi kitavásya bhógam ||
The mother-in-law hates; the wife drives me away and shuts me out; the one who seeks refuge finds no helper. Like an old horse offered for sale, I find no enjoyment—only the gambler’s hollow share.
द्वेष्टि॑ । श्व॒श्रूः । अप॑ । जा॒या । रु॒ण॒द्धि॒ । न । ना॒थि॒तः । वि॒न्द॒ते॒ । म॒र्डि॒तार॑म् । अश्व॑स्यऽइव । जर॑तः । वस्न्य॑स्य । न । अ॒हम् । वि॒न्दा॒मि॒ । कि॒त॒वस्य॑ । भोग॑म् ॥द्वेष्टि । श्वश्रूः । अप । जाया । रुणद्धि । न । नाथितः । विन्दते । मर्डितारम् । अश्वस्यइव । जरतः । वस्न्यस्य । न । अहम् । विन्दामि । कितवस्य । भोगम् ॥dveṣṭi | śvaśrūḥ | apa | jāyā | ruṇaddhi | na | nāthitaḥ | vindate | marḍitāram | aśvasya-iva | jarataḥ | vasnyasya | na | aham | vindāmi | kitavasya | bhogam