Sukta 10.32
अद्येदु प्राणीदममन्निमाहापीवृतो अधयन्मातुरूधः । एमेनमाप जरिमा युवानमहेळन्वसुः सुमना बभूव ॥
अ॒द्येदु॒ प्राणी॒दम॑मन्नि॒माहापी॑वृतो अधयन्मा॒तुरूध॑: । एमे॑नमाप जरि॒मा युवा॑न॒महे॑ळ॒न्वसु॑: सु॒मना॑ बभूव ॥
adyéd u prá̄́ṇīd ámaman imā́ áhā́pīvṛto adhayann mātúr ū́dhaḥ | émenam āpa jarímā yúvānam áheḷan vásuḥ sumánā babhūva ||
Today indeed he has breathed forth and has formed these days; encompassed, he drank the Mother’s udder. Thus age came upon him, though he was young; yet the good giver, unangered, became of a happy mind.
अ॒द्य । इत् । ऊँ॒ इति॑ । प्र । आ॒णी॒त् । अम॑मन् । इ॒मा । अहा॑ । अपि॑ऽवृतः । अ॒ध॒य॒त् । मा॒तुः । ऊधः॑ । आ । ई॒म् । ए॒न॒म् । आ॒प॒ । ज॒रि॒मा । युवा॑नम् । अहे॑ळन् । वसुः॑ । सु॒ऽमनाः॑ । ब॒भू॒व॒ ॥अद्य । इत् । ऊँ इति । प्र । आणीत् । अममन् । इमा । अहा । अपिवृतः । अधयत् । मातुः । ऊधः । आ । ईम् । एनम् । आप । जरिमा । युवानम् । अहेळन् । वसुः । सुमनाः । बभूव ॥adya | it | oṃ iti | pra | āṇīt | amaman | imā | ahā | api-vṛtaḥ | adhayat | mātuḥ | ūdhaḥ | ā | īm | enam | āpa | jarimā | yuvānam | aheḷan | vasuḥ | su-manāḥ | babhūva