Sukta 10.32
एतानि भद्रा कलश क्रियाम कुरुश्रवण ददतो मघानि । दान इद्वो मघवानः सो अस्त्वयं च सोमो हृदि यं बिभर्मि ॥
ए॒तानि॑ भ॒द्रा क॑लश क्रियाम॒ कुरु॑श्रवण॒ दद॑तो म॒घानि॑ । दा॒न इद्वो॑ मघवान॒: सो अ॑स्त्व॒यं च॒ सोमो॑ हृ॒दि यं बिभ॑र्मि ॥
etā́ni bhadrā kalaśa kriyā́ma kuruśravaṇa dádato maghā́ni | dānā́ íd vo maghavā́naḥ só astv ayáṃ ca sómo hṛdí yáṃ bíbhar-mi ||
These auspicious works, O Vessel, let us accomplish—O Kuruśravaṇa, as you give the bounties. Let your giving be, O Maghavan, for this Soma too, which I bear in my heart.
ए॒तानि॑ । भ॒द्रा । क॒ल॒श॒ । क्रि॒या॒म॒ । कुरु॑ऽश्रवण । दद॑तः । म॒घानि॑ । दा॒नः । इत् । वः॒ । म॒घ॒ऽवा॒नः॒ । सः । अ॒स्तु॒ । अ॒यम् । च॒ । सोमः॑ । हृ॒दि । यम् । बिभ॑र्मि ॥एतानि । भद्रा । कलश । क्रियाम । कुरुश्रवण । ददतः । मघानि । दानः । इत् । वः । मघवानः । सः । अस्तु । अयम् । च । सोमः । हृदि । यम् । बिभर्मि ॥etāni | bhadrā | kalaśa | kriyāma | kuru-śravaṇa | dadataḥ | maghāni | dānaḥ | it | vaḥ | magha-vānaḥ | saḥ | astu | ayam | ca | somaḥ | hṛdi | yam | bibharmi