Sukta 10.32
अक्षेत्रवित्क्षेत्रविदं ह्यप्राट् स प्रैति क्षेत्रविदानुशिष्टः । एतद्वै भद्रमनुशासनस्योत स्रुतिं विन्दत्यञ्जसीनाम् ॥
अक्षे॑त्रवित्क्षेत्र॒विदं॒ ह्यप्रा॒ट् स प्रैति॑ क्षेत्र॒विदानु॑शिष्टः । ए॒तद्वै भ॒द्रम॑नु॒शास॑नस्यो॒त स्रु॒तिं वि॑न्दत्यञ्ज॒सीना॑म् ॥
ákṣetravit kṣetravídam hí aprā́ṭ sá práiti kṣetravídā́nuśiṣṭaḥ | etád vai bhadrám anuśā́sanasyṓtá srutíṃ vindaty añjasī́nām ||
The one who knows no field reaches the knower of the field; instructed by the field-knower he goes forward. This indeed is the good of true guidance: he finds also the straight track of those who move by the direct way.
अक्षे॑त्रऽवित् । क्षे॒त्र॒ऽविद॑म् । हि । अप्रा॑ट् । सः । प्र । ए॒ति॒ । क्षे॒त्र॒ऽविदा॑ । अनु॑ऽशिष्टः । ए॒तत् । वै॒ । भ॒द्रम् । अ॒नु॒ऽशास॑नस्य । उ॒त । स्रु॒तिम् । वि॒न्द॒ति॒ । अ॒ञ्ज॒सीना॑म् ॥अक्षेत्रवित् । क्षेत्रविदम् । हि । अप्राट् । सः । प्र । एति । क्षेत्रविदा । अनुशिष्टः । एतत् । वै । भद्रम् । अनुशासनस्य । उत । स्रुतिम् । विन्दति । अञ्जसीनाम् ॥akṣetra-vit | kṣetra-vidam | hi | aprāṭ | saḥ | pra | eti | kṣetra-vidā | anu-śiṣṭaḥ | etat | vai | bhadram | anu-śāsanasya | uta | srutim | vindati | añjasīnām