Sukta 10.32
प्र वोऽच्छा रिरिचे देवयुष्पदमेको रुद्रेभिर्याति तुर्वणिः । जरा वा येष्वमृतेषु दावने परि व ऊमेभ्यः सिञ्चता मधु ॥
प्र वोऽच्छा॑ रिरिचे देव॒युष्प॒दमेको॑ रु॒द्रेभि॑र्याति तु॒र्वणि॑: । ज॒रा वा॒ येष्व॒मृते॑षु दा॒वने॒ परि॑ व॒ ऊमे॑भ्यः सिञ्चता॒ मधु॑ ॥
prá vo ’cchā́ ririce devayúṣ-pádam éko rudrébhir yāti turváṇiḥ | járā vā́ yéṣv amṛ́teṣu dā́vane párī va ū́mebhyaḥ siñcatā mádhu ||
Forward to you the god-seeking path is poured out; the one impetuous power moves with the Rudras. Where the deathless ones give, even old age is overpassed; from your protections pour around us the honeyed delight.
प्र । वः॒ । अच्छ॑ । रि॒रि॒चे॒ । दे॒व॒ऽयुः । प॒दम् । एकः॑ । रु॒द्रेभिः॑ । या॒ति॒ । तु॒र्वणिः॑ । ज॒रा । वा॒ । येषु॑ । अ॒मृते॑षु । दा॒वने॑ । परि॑ । वः॒ । ऊमे॑भ्यः । सि॒ञ्च॒त॒ । मधु॑ ॥प्र । वः । अच्छ । रिरिचे । देवयुः । पदम् । एकः । रुद्रेभिः । याति । तुर्वणिः । जरा । वा । येषु । अमृतेषु । दावने । परि । वः । ऊमेभ्यः । सिञ्चत । मधु ॥pra | vaḥ | accha | ririce | deva-yuḥ | padam | ekaḥ | rudrebhiḥ | yāti | turvaṇiḥ | jarā | vā | yeṣu | amṛteṣu | dāvane | pari | vaḥ | ūmebhyaḥ | siñcata | madhu