Sukta 10.32
तदित्सधस्थमभि चारु दीधय गावो यच्छासन्वहतुं न धेनवः । माता यन्मन्तुर्यूथस्य पूर्व्याभि वाणस्य सप्तधातुरिज्जनः ॥
तदित्स॒धस्थ॑म॒भि चारु॑ दीधय॒ गावो॒ यच्छास॑न्वह॒तुं न धे॒नव॑: । मा॒ता यन्मन्तु॑र्यू॒थस्य॑ पू॒र्व्याभि वा॒णस्य॑ स॒प्तधा॑तु॒रिज्जन॑: ॥
tád ít sadhástham abhí cā́ru dīdhaya gā́vo yác chā́san vahatúṃ ná dhenávaḥ | mātā́ yán mantúr yūthásya pū́rvyā́bhí vā́ṇasya saptádhātur íj jánaḥ ||
Then indeed he sets the fair thought upon the common seat (of the gods), when the Rays of Light, like milch-cows, obey and bear the burden onward. When the ancient Mother of the herd (the primal Consciousness) moves toward the Word, the sevenfold-founded human being is impelled into his right kind of birth.
तत् । इत् । स॒धऽस्थ॑म् । अ॒भि । चारु॑ । दी॒ध॒य॒ । गावः॑ । यत् । शास॑न् । व॒ह॒तुम् । न । धे॒नवः॑ । मा॒ता । यत् । मन्तुः॑ । यू॒थस्य॑ । पू॒र्व्या । अ॒भि । वा॒णस्य॑ । स॒प्तऽधा॑तुः । इत् । जनः॑ ॥तत् । इत् । सधस्थम् । अभि । चारु । दीधय । गावः । यत् । शासन् । वहतुम् । न । धेनवः । माता । यत् । मन्तुः । यूथस्य । पूर्व्या । अभि । वाणस्य । सप्तधातुः । इत् । जनः ॥tat | it | sadha-stham | abhi | cāru | dīdhaya | gāvaḥ | yat | śāsan | vahatum | na | dhenavaḥ | mātā | yat | mantuḥ | yūthasya | pūrvyā | abhi | vāṇasya | sapta-dhātuḥ | it | janaḥ