Sukta 10.31
किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । संतस्थाने अजरे इतऊती अहानि पूर्वीरुषसो जरन्त ॥
किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । सं॒त॒स्था॒ने अ॒जरे॑ इ॒तऊ॑ती॒ अहा॑नि पू॒र्वीरु॒षसो॑ जरन्त ॥
kíṃ svíd vánaṃ ká u sá vṛ́kṣa āsā yáto dyā́vā-pṛthivī́ níṣ-tatakṣuḥ | saṃ-tasthāné ajáre ita-ūtī́ ahā́ni pūrvī́r uṣáso jaranta ||
What was the wood, and what the tree from which they fashioned Heaven and Earth? In the established station, undecaying, supported by that Power, the many ancient Dawns keep renewing the days.
किम् । स्वि॒त् । वन॑म् । कः । ऊँ॒ इति॑ । सः । वृ॒क्षः । आ॒स॒ । यतः॑ । द्यावा॑पृथि॒वी इति॑ । निः॒ऽत॒त॒क्षुः । स॒न्त॒स्था॒ने इति॑ स॒म्ऽत॒स्था॒ने । अ॒जरे॒ इति॑ । इ॒तऊ॑ती॒ इती॒तःऽऊ॑ती । अहा॑नि । पू॒र्वीः । उ॒षसः॑ । ज॒र॒न्त॒ ॥किम् । स्वित् । वनम् । कः । ऊँ इति । सः । वृक्षः । आस । यतः । द्यावापृथिवी इति । निःततक्षुः । सन्तस्थाने इति सम्तस्थाने । अजरे इति । इतऊती इतीतःऊती । अहानि । पूर्वीः । उषसः । जरन्त ॥kim | svit | vanam | kaḥ | oṃ iti | saḥ | vṛkṣaḥ | āsa | yataḥ | dyāvāpṛthivī iti | niḥ-tatakṣuḥ | santasthāne itisam-tasthāne | ajareiti | itaūtī itītaḥ-ūtī | ahāni | pūrvīḥ | uṣasaḥ | jaranta