Sukta 10.31
अस्येदेषा सुमतिः पप्रथानाभवत्पूर्व्या भूमना गौः । अस्य सनीळा असुरस्य योनौ समान आ भरणे बिभ्रमाणाः ॥
अ॒स्येदे॒षा सु॑म॒तिः प॑प्रथा॒नाभ॑वत्पू॒र्व्या भूम॑ना॒ गौः । अ॒स्य सनी॑ळा॒ असु॑रस्य॒ योनौ॑ समा॒न आ भर॑णे॒ बिभ्र॑माणाः ॥
asyéd eṣā́ su-matíḥ paprathānā́ ábhavat pū́rvyā bhū́manā gáuḥ | asyá sa-nīḷā ásurasya yónau samāné ā́ bháraṇe bíbhramāṇāḥ ||
Indeed, this right-mindedness of his has spread out; the Cow—ancient in her vastness—has come into being. In the same bearing, established together in the womb of the Asura, they carry (the one work) in harmony.
अ॒स्य । इत् । ए॒षा । सु॒ऽम॒तिः । प॒प्र॒था॒ना । अभ॑वत् । पू॒र्व्या । भूम॑ना । गौः । अ॒स्य । सऽनी॑ळाः । असु॑रस्य । योनौ॑ । स॒मा॒ने । आ । भर॑णे । बिभ्र॑माणाः ॥अस्य । इत् । एषा । सुमतिः । पप्रथाना । अभवत् । पूर्व्या । भूमना । गौः । अस्य । सनीळाः । असुरस्य । योनौ । समाने । आ । भरणे । बिभ्रमाणाः ॥asya | it | eṣā | su-matiḥ | paprathānā | abhavat | pūrvyā | bhūmanā | gauḥ | asya | sa-nīḷāḥ | asurasya | yonau | samāne | ā | bharaṇe | bibhramāṇāḥ