Sukta 10.31
इयं सा भूया उषसामिव क्षा यद्ध क्षुमन्तः शवसा समायन् । अस्य स्तुतिं जरितुर्भिक्षमाणा आ नः शग्मास उप यन्तु वाजाः ॥
इ॒यं सा भू॑या उ॒षसा॑मिव॒ क्षा यद्ध॑ क्षु॒मन्त॒: शव॑सा स॒माय॑न् । अ॒स्य स्तु॒तिं ज॑रि॒तुर्भिक्ष॑माणा॒ आ न॑: श॒ग्मास॒ उप॑ यन्तु॒ वाजा॑: ॥
iyáṃ sā bhū́yā uṣásām iva kṣā́ yád dha kṣú-mantaḥ śávasā sam-ā́yan | asyá stutíṃ jaritúr bhíkṣamāṇā ā́ naḥ śagmā́sa úpa yantu vā́jāḥ ||
May this (our word of offering) become that wide field of light like the Dawns, when the luminous ones, by their force, come together. Seeking the praise of the singer, let the strong and beneficent powers of plenitude draw near to us with their vāja—fullness of victorious energy.
इ॒यम् । सा । भू॒याः॒ । उ॒षसा॑म्ऽइव । क्षाः । यत् । ह॒ । क्षु॒ऽमन्तः॑ । शव॑सा । स॒म्ऽआय॑न् । अ॒स्य । स्तु॒तिम् । ज॒रि॒तुः । भिक्ष॑माणाः । आ । नः॒ । श॒ग्मासः॑ । उप॑ । य॒न्तु॒ । वाजाः॑ ॥इयम् । सा । भूयाः । उषसाम्इव । क्षाः । यत् । ह । क्षुमन्तः । शवसा । सम्आयन् । अस्य । स्तुतिम् । जरितुः । भिक्षमाणाः । आ । नः । शग्मासः । उप । यन्तु । वाजाः ॥iyam | sā | bhūyāḥ | uṣasām-iva | kṣāḥ | yat | ha | kṣu-mantaḥ | śavasā | sam-āyan | asya | stutim | jarituḥ | bhikṣamāṇāḥ | ā | naḥ | śagmāsaḥ | upa | yantu | vājāḥ