Sukta 10.31
नित्यश्चाकन्यात्स्वपतिर्दमूना यस्मा उ देवः सविता जजान । भगो वा गोभिरर्यमेमनज्यात्सो अस्मै चारुश्छदयदुत स्यात् ॥
नित्य॑श्चाकन्या॒त्स्वप॑ति॒र्दमू॑ना॒ यस्मा॑ उ दे॒वः स॑वि॒ता ज॒जान॑ । भगो॑ वा॒ गोभि॑रर्य॒मेम॑नज्या॒त्सो अ॑स्मै॒ चारु॑श्छदयदु॒त स्या॑त् ॥
nítyaś cākanyā́t svápatir damū́nā yásmā u deváḥ savitā́ jajā́na | bhágo vā góbhiḥ aryamā́ īm anajyā́t só asmai cā́ruś chadáyad utá syāt ||
May the constant lord of his own house, the dweller within, ever strive for the one whom Savitṛ the god has brought to birth. May Bhaga or Aryaman anoint him with the rays of Light; then for him there shall be a lovely covering and a secure well-being.
नित्यः॑ । चा॒क॒न्या॒त् । स्वऽप॑तिः । दमू॑नाः । यस्मै॑ । ऊँ॒ इति॑ । दे॒वः । स॒वि॒ता । ज॒जान॑ । भगः॑ । वा॒ । गोभिः॑ । अ॒र्य॒मा । ई॒म् । अ॒न॒ज्या॒त् । सः । अ॒स्मै॒ । चारुः॑ । छ॒द॒य॒त् । उ॒त । स्या॒त् ॥नित्यः । चाकन्यात् । स्वपतिः । दमूनाः । यस्मै । ऊँ इति । देवः । सविता । जजान । भगः । वा । गोभिः । अर्यमा । ईम् । अनज्यात् । सः । अस्मै । चारुः । छदयत् । उत । स्यात् ॥nityaḥ | cākanyāt | sva-patiḥ | damūnāḥ | yasmai | oṃ iti | devaḥ | savitā | jajāna | bhagaḥ | vā | gobhiḥ | aryamā | īm | anajyāt | saḥ | asmai | cāruḥ | chadayat | uta | syāt