Sukta 10.31
अधायि धीतिरससृग्रमंशास्तीर्थे न दस्ममुप यन्त्यूमाः । अभ्यानश्म सुवितस्य शूषं नवेदसो अमृतानामभूम ॥
अधा॑यि धी॒तिरस॑सृग्र॒मंशा॑स्ती॒र्थे न द॒स्ममुप॑ य॒न्त्यूमा॑: । अ॒भ्या॑नश्म सुवि॒तस्य॑ शू॒षं नवे॑दसो अ॒मृता॑नामभूम ॥
adhā́yi dhītír ásasṛgram áṃśās tī́rthe ná dasmám úpa yánty ū́māḥ | abhyā́nashma suvitásya śū́ṣaṃ návedaso amṛ́tānām abhūma ||
The inspired thought has been set; the portions have streamed forth. As to a ford, the waves move toward the wondrous one. We have reached the force of the good passage; becoming knowers anew, we have entered the immortals’ wideness.
अधा॑यि । धी॒तिः । अस॑सृग्रम् । अंशाः॑ । ती॒र्थे । न । द॒स्मम् । उप॑ । य॒न्ति॒ । ऊमाः॑ । अ॒भि । आ॒न॒श्म॒ । सु॒वि॒तस्य॑ । शू॒षम् । नवे॑दसः । अ॒मृता॑नाम् । अ॒भू॒म॒ ॥अधायि । धीतिः । अससृग्रम् । अंशाः । तीर्थे । न । दस्मम् । उप । यन्ति । ऊमाः । अभि । आनश्म । सुवितस्य । शूषम् । नवेदसः । अमृतानाम् । अभूम ॥adhāyi | dhītiḥ | asasṛgram | aṃśāḥ | tīrthe | na | dasmam | upa | yanti | ūmāḥ | abhi | ānaśma | suvitasya | śūṣam | navedasaḥ | amṛtānām | abhūma