Sukta 10.31
परि चिन्मर्तो द्रविणं ममन्यादृतस्य पथा नमसा विवासेत् । उत स्वेन क्रतुना सं वदेत श्रेयांसं दक्षं मनसा जगृभ्यात् ॥
परि॑ चि॒न्मर्तो॒ द्रवि॑णं ममन्यादृ॒तस्य॑ प॒था नम॒सा वि॑वासेत् । उ॒त स्वेन॒ क्रतु॑ना॒ सं व॑देत॒ श्रेयां॑सं॒ दक्षं॒ मन॑सा जगृभ्यात् ॥
pári cit márto dráviṇaṃ mamanyād ṛtásya pathā́ namasā́ vivāset | utá svéna krátunā sáṃ vadeta śréyāṃsaṃ dákṣaṃ mánasā jagṛbhyāt ||
Even a mortal may encompass the treasure if he serves by the path of Ṛta with reverence. Let him also speak in accord with his own awakened will; let him seize with the mind a more excellent power of skill and discernment.
परि॑ । चि॒त् । मर्तः॑ । द्रवि॑णम् । म॒म॒न्या॒त् । ऋ॒तस्य॑ । प॒था । न॒म॒सा । वि॒वा॒से॒त् । उ॒त । स्वेन॑ । क्रतु॑ना । सम् । व॒दे॒त॒ । श्रेयां॑सम् । दक्ष॑म् । मन॑सा । ज॒गृ॒भ्या॒त् ॥परि । चित् । मर्तः । द्रविणम् । ममन्यात् । ऋतस्य । पथा । नमसा । विवासेत् । उत । स्वेन । क्रतुना । सम् । वदेत । श्रेयांसम् । दक्षम् । मनसा । जगृभ्यात् ॥pari | cit | martaḥ | draviṇam | mamanyāt | ṛtasya | pathā | namasā | vivāset | uta | svena | kratunā | sam | vadeta | śreyāṃsam | dakṣam | manasā | jagṛbhyāt