Sukta 10.31
आ नो देवानामुप वेतु शंसो विश्वेभिस्तुरैरवसे यजत्रः । तेभिर्वयं सुषखायो भवेम तरन्तो विश्वा दुरिता स्याम ॥
आ नो॑ दे॒वाना॒मुप॑ वेतु॒ शंसो॒ विश्वे॑भिस्तु॒रैरव॑से॒ यज॑त्रः । तेभि॑र्व॒यं सु॑ष॒खायो॑ भवेम॒ तर॑न्तो॒ विश्वा॑ दुरि॒ता स्या॑म ॥
ā́ no devā́nām úpa vetu śáṃso víśvebhis turáir ávase yájatraḥ | tébhir vayáṃ suṣakhā́yo bhavema táranto víśvā duritā́ syāma ||
May our hymn of affirmation come near to the Gods for help—worship-worthy, with all the swift ones. With them may we become good comrades, crossing beyond all hardships and crooked passages of the being.
आ । नः॒ । दे॒वाना॑म् । उप॑ । वे॒तु॒ । शंसः॑ । विश्वे॑भिः । तु॒रैः । अव॑से । यज॑त्रः । तेभिः॑ । व॒यम् । सु॒ऽस॒खायः॑ । भ॒वे॒म॒ । तर॑न्तः । विश्वा॑ । दुः॒ऽइ॒ता । स्या॒म॒ ॥आ । नः । देवानाम् । उप । वेतु । शंसः । विश्वेभिः । तुरैः । अवसे । यजत्रः । तेभिः । वयम् । सुसखायः । भवेम । तरन्तः । विश्वा । दुःइता । स्याम ॥ā | naḥ | devānām | upa | vetu | śaṃsaḥ | viśvebhiḥ | turaiḥ | avase | yajatraḥ | tebh iḥ | vayam | su-sakhāyaḥ | bhavema | tarantaḥ | viśvā | duḥ-itā | syāma