Sukta 10.31
स्तरीर्यत्सूत सद्यो अज्यमाना व्यथिरव्यथीः कृणुत स्वगोपा । पुत्रो यत्पूर्वः पित्रोर्जनिष्ट शम्यां गौर्जगार यद्ध पृच्छान् ॥
स्त॒रीर्यत्सूत॑ स॒द्यो अ॒ज्यमा॑ना॒ व्यथि॑रव्य॒थीः कृ॑णुत॒ स्वगो॑पा । पु॒त्रो यत्पूर्व॑: पि॒त्रोर्जनि॑ष्ट श॒म्यां गौर्ज॑गार॒ यद्ध॑ पृ॒च्छान् ॥
starī́r yát sū́ta sadyó ajyámānā vyáthir avyathī́ḥ kṛṇuta svá-gopā | putró yát pū́rvaḥ pitrór ján iṣṭa śamyā́ṃ gáur jagā́ra yád dha pṛcchā́n ||
When the spreading one gave birth at once, being anointed, the shaken became unshaken, self-guarded. When the Son, the first, was born of the two Parents, the Cow lowed at the yoke-pole as if questioning—calling for the hidden truth to be brought out.
स्त॒रीः । यत् । सूत॑ । स॒द्यः । अ॒ज्यमा॑ना । व्यथिः॑ । अ॒व्य॒थीः । कृ॒णु॒त॒ । स्वऽगो॑पा । पु॒त्रः । यत् । पूर्वः॑ । पि॒त्रोः । जनि॑ष्ट । श॒म्याम् । गौः । ज॒गा॒र॒ । यत् । ह॒ । पृ॒च्छान् ॥स्तरीः । यत् । सूत । सद्यः । अज्यमाना । व्यथिः । अव्यथीः । कृणुत । स्वगोपा । पुत्रः । यत् । पूर्वः । पित्रोः । जनिष्ट । शम्याम् । गौः । जगार । यत् । ह । पृच्छान् ॥starīḥ | yat | sūta | sadyaḥ | ajyamānā | vyathiḥ | avyathīḥ | kṛṇuta | sva-gopā | putraḥ | yat | pūrvaḥ | pitroḥ | janiṣṭa | śamyām | gauḥ | jagāra | yat | ha | pṛcchān