Sukta 10.31
उत कण्वं नृषदः पुत्रमाहुरुत श्यावो धनमादत्त वाजी । प्र कृष्णाय रुशदपिन्वतोधॠतमत्र नकिरस्मा अपीपेत् ॥
उ॒त कण्वं॑ नृ॒षद॑: पु॒त्रमा॑हुरु॒त श्या॒वो धन॒माद॑त्त वा॒जी । प्र कृ॒ष्णाय॒ रुश॑दपिन्व॒तोध॑ॠ॒तमत्र॒ नकि॑रस्मा अपीपेत् ॥
utá káṇvaṃ nṛ-sádaḥ putrám āhuḥ utá śyā́vo dhánam ā́datta vājī́ | prá kṛṣṇā́ya rúśad apinvátodhá ṛtám atra nákir asmai apīpet ||
And they call Kaṇva the son of the Men-seated powers; and Śyāva the racer has taken the riches. For the dark (being) the shining one has filled the udder forth; here none has diminished for him the ṛta—its true increase is preserved.
उ॒त । कण्व॑म् । नृ॒ऽसदः॑ । पु॒त्रम् । आ॒हुः॒ । उ॒त । श्या॒वः । धन॑म् । आ । अ॒द॒त्त॒ । वा॒जी । प्र । कृ॒ष्णाय॑ । रुश॑त् । अ॒पि॒न्व॒त॒ । ऊधः॑ । ऋ॒तम् । अत्र॑ । नकिः॑ । अ॒स्मै॒ । अ॒पी॒पे॒त् ॥उत । कण्वम् । नृसदः । पुत्रम् । आहुः । उत । श्यावः । धनम् । आ । अदत्त । वाजी । प्र । कृष्णाय । रुशत् । अपिन्वत । ऊधः । ऋतम् । अत्र । नकिः । अस्मै । अपीपेत् ॥uta | kaṇvam | nṛ-sadaḥ | putram | āhuḥ | uta | śyāvaḥ | dhanam | ā | adatta | vājī | pra | kṛṣṇāya | ruśat | apinvata | ūdhaḥ | ṛtam | atra | nakiḥ | asmai | apīpet