Sukta 10.3
अस्य शुष्मासो ददृशानपवेर्जेहमानस्य स्वनयन्नियुद्भिः । प्रत्नेभिर्यो रुशद्भिर्देवतमो वि रेभद्भिररतिर्भाति विभ्वा ॥
अ॒स्य शुष्मा॑सो ददृशा॒नप॑वे॒र्जेह॑मानस्य स्वनयन्नि॒युद्भि॑: । प्र॒त्नेभि॒र्यो रुश॑द्भिर्दे॒वत॑मो॒ वि रेभ॑द्भिरर॒तिर्भाति॒ विभ्वा॑ ॥
asyá śúṣmāso dadṛśānápaveḥ jéhamānasya svanáyan niyúd-bhiḥ | prátnébhiḥ yó rúśad-bhir devá-tamo ví rébhad-bhir aratír bhā́ti ví-bhvā ||
His powers are seen—of the unimpeded one—trembling with intensity, sounding with yoked forces. With ancient shining energies, most divine, with inspired utterances, the moving Power shines out, all-pervading.
अ॒स्य । शुष्मा॑सः । द॒दृ॒शा॒नऽप॑वेः । जेह॑मानस्य । स्व॒न॒य॒न् । नि॒युत्ऽभिः॑ । प्र॒त्नेभिः । यः । रुश॑त्ऽभिः । दे॒वऽत॑मः । वि । रेभ॑त्ऽभिः । अ॒र॒तिः । भाति॑ । विऽभ्वा॑ ॥अस्य । शुष्मासः । ददृशानपवेः । जेहमानस्य । स्वनयन् । नियुत्भिः । प्रत्नेभिः । यः । रुशत्भिः । देवतमः । वि । रेभत्भिः । अरतिः । भाति । विभ्वा ॥asya | śuṣmāsaḥ | dadṛśāna-paveḥ | jehamānasya | svanayan | niyut-bhiḥ | pratnebhiḥ | yaḥ | ruśat-bhiḥ | deva-tamaḥ | vi | rebhat-bhiḥ | aratiḥ | bhāti | v i-bhvā