Sukta 10.3
स आ वक्षि महि न आ च सत्सि दिवस्पृथिव्योररतिर्युवत्योः । अग्निः सुतुकः सुतुकेभिरश्वै रभस्वद्भी रभस्वाँ एह गम्याः ॥
स आ व॑क्षि॒ महि॑ न॒ आ च॑ सत्सि दि॒वस्पृ॑थि॒व्योर॑र॒तिर्यु॑व॒त्योः । अ॒ग्निः सु॒तुक॑: सु॒तुके॑भि॒रश्वै॒ रभ॑स्वद्भी॒ रभ॑स्वाँ॒ एह ग॑म्याः ॥
sá ā́ vakṣi máhi na ā́ ca satsi divás-pṛthivyór aratír yuvatyóḥ | agníḥ su-túkaḥ su-túkebhir áśvaiḥ rábhasvad-bhī rábhasvān éha gamyāḥ ||
Bring to us the greatness and sit here with us—Agni, the moving Power of the two young ones, Heaven and Earth. With swift, well-yoked horses, impetuous and strong, come here to our field of offering.
सः । आ । व॒क्षि॒ । महि॑ । नः॒ । आ । च॒ । स॒त्सि॒ । दि॒वःपृ॑थि॒व्योः । अ॒र॒तिः । यु॒व॒त्योः । अ॒ग्निः । सु॒ऽतुकः॑ । सु॒त्ऽउके॑भिः । अश्वैः॑ । रभ॑स्वत्ऽभिः । रभ॑स्वान् । आ । इ॒ह । ग॒म्याः॒ ॥सः । आ । वक्षि । महि । नः । आ । च । सत्सि । दिवःपृथिव्योः । अरतिः । युवत्योः । अग्निः । सुतुकः । सुत्उकेभिः । अश्वैः । रभस्वत्भिः । रभस्वान् । आ । इह । गम्याः ॥saḥ | ā | vakṣi | mahi | naḥ | ā | ca | satsi | divaḥpṛthivyoḥ | aratiḥ | yuvatyoḥ | agniḥ | su-tukaḥ | sut-ukebhiḥ | aśvaiḥ | rabhasvat-bhiḥ | rabhasvān | ā | iha | gamyāḥ