Sukta 10.3
स्वना न यस्य भामासः पवन्ते रोचमानस्य बृहतः सुदिवः । ज्येष्ठेभिर्यस्तेजिष्ठैः क्रीळुमद्भिर्वर्षिष्ठेभिर्भानुभिर्नक्षति द्याम् ॥
स्व॒ना न यस्य॒ भामा॑स॒: पव॑न्ते॒ रोच॑मानस्य बृह॒तः सु॒दिव॑: । ज्येष्ठे॑भि॒र्यस्तेजि॑ष्ठैः क्रीळु॒मद्भि॒र्वर्षि॑ष्ठेभिर्भा॒नुभि॒र्नक्ष॑ति॒ द्याम् ॥
svanā́ ná yásya bhā́māsaḥ pávente rócamānasya bṛhatáḥ su-dívaḥ | jyéṣṭhebhiḥ yás téjiṣṭhaiḥ krīḷumád-bhiḥ várṣiṣṭhebhiḥ bhā́nu-bhir nákṣati dyā́m ||
Like resonant currents, his radiances stream—of the shining Vast One of good heaven. With the eldest, most blazing, playfully powerful, most abundant beams, he reaches and possesses the heaven of light.
स्व॒नाः । न । यस्य॑ । भामा॑सः । पव॑न्ते । रोच॑मानस्य । बृ॒ह॒तः । सु॒ऽदिवः॑ । ज्येष्ठे॑भिः । यः । तेजि॑ष्ठैः । क्री॒ळु॒मत्ऽभिः॑ । वर्षि॑ष्ठेभिः । भा॒नुऽभिः॑ । नक्ष॑ति । द्याम् ॥स्वनाः । न । यस्य । भामासः । पवन्ते । रोचमानस्य । बृहतः । सुदिवः । ज्येष्ठेभिः । यः । तेजिष्ठैः । क्रीळुमत्भिः । वर्षिष्ठेभिः । भानुभिः । नक्षति । द्याम् ॥svanāḥ | na | yasya | bhāmāsaḥ | pavante | rocamānasya | bṛhataḥ | su-divaḥ | jyeṣṭhebhiḥ | yaḥ | tejiṣṭhaiḥ | krīḷumat-bhiḥ | varṣiṣṭhebhiḥ | bhānu-bhiḥ | nakṣati | dyām