Sukta 10.3
अस्य यामासो बृहतो न वग्नूनिन्धाना अग्नेः सख्युः शिवस्य । ईड्यस्य वृष्णो बृहतः स्वासो भामासो यामन्नक्तवश्चिकित्रे ॥
अ॒स्य यामा॑सो बृह॒तो न व॒ग्नूनिन्धा॑ना अ॒ग्नेः सख्यु॑: शि॒वस्य॑ । ईड्य॑स्य॒ वृष्णो॑ बृह॒तः स्वासो॒ भामा॑सो॒ याम॑न्न॒क्तव॑श्चिकित्रे ॥
asyá yā́māso bṛható ná vagnū́n indhā́nā agnéḥ sákhyuḥ śivásya | ī́ḍyasya vṛ́ṣṇo bṛhatáḥ svā́so bhā́māso yā́mann aktávaś cikitre ||
These goings of the Vast One, like swift flames, kindle the friendly and gracious Agni. Of the adorable strong one, the Vast, his own radiant powers move on their way, anointed, awake to discern.
अ॒स्य । यामा॑सः । बृ॒ह॒तः । न । व॒ग्नून् । इन्धा॑नाः । अ॒ग्नेः । सख्युः॑ । शि॒वस्य॑ । ईड्य॑स्य । वृष्णः॑ । बृ॒ह॒तः । सु॒ऽआसः॑ । भामा॑सः । याम॑न् । अ॒क्तवः॑ । चि॒कि॒त्रे॒ ॥अस्य । यामासः । बृहतः । न । वग्नून् । इन्धानाः । अग्नेः । सख्युः । शिवस्य । ईड्यस्य । वृष्णः । बृहतः । सुआसः । भामासः । यामन् । अक्तवः । चिकित्रे ॥asya | yāmāsaḥ | bṛhataḥ | na | vagnūn | indhānāḥ | agneḥ | sakhyuḥ | śivasya | īḍyasya | vṛṣṇaḥ | bṛhataḥ | su-āsaḥ | bhāmāsaḥ | yāman | aktavaḥ | cikitre