Sukta 10.29
आ मध्वो अस्मा असिचन्नमत्रमिन्द्राय पूर्णं स हि सत्यराधाः । स वावृधे वरिमन्ना पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश्च ॥
आ मध्वो॑ अस्मा असिच॒न्नम॑त्र॒मिन्द्रा॑य पू॒र्णं स हि स॒त्यरा॑धाः । स वा॑वृधे॒ वरि॑म॒न्ना पृ॑थि॒व्या अ॒भि क्रत्वा॒ नर्य॒: पौंस्यै॑श्च ॥
ā́ mádhvo asmā asicánn ámatram indrā́ya pū́rṇaṃ sá hí satyárādhāḥ | sá vāvṛdhe várimann ā́ pṛthivyā́ abhí kratvā́ náryaḥ paúṃsyaiś ca ||
They have poured out for him the honeyed delight, a full measure for Indra—for he is one whose attainments are true. He has grown in wideness up to the Earth, by his will of action, by his manly powers and virile energies: the inner being expands when Truth-power is fed with the sweet essence.
आ । मध्वः॑ । अ॒स्मै॒ । अ॒सि॒च॒न् । अम॑त्रम् । इन्द्रा॑य । पू॒र्णम् । सः । हि । स॒त्यऽरा॑धाः । सः । व॒वृ॒धे॒ । वरि॑मन् । आ । पृ॒थि॒व्याः । अ॒भि । क्रत्वा॑ । नर्यः॑ । पौंस्यैः॑ । च॒ ॥आ । मध्वः । अस्मै । असिचन् । अमत्रम् । इन्द्राय । पूर्णम् । सः । हि । सत्यराधाः । सः । ववृधे । वरिमन् । आ । पृथिव्याः । अभि । क्रत्वा । नर्यः । पौंस्यैः । च ॥ā | madhvaḥ | asmai | asican | amatram | indrāya | pūrṇam | saḥ | hi | satya-rādhāḥ | saḥ | vavṛdhe | variman | ā | pṛthivyāḥ | abhi | kratvā | naryaḥ | paiṃsyaiḥ | ca