Sukta 10.29
मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर्मज्मना पृथिवी काव्येन । वराय ते घृतवन्तः सुतासः स्वाद्मन्भवन्तु पीतये मधूनि ॥
मात्रे॒ नु ते॒ सुमि॑ते इन्द्र पू॒र्वी द्यौर्म॒ज्मना॑ पृथि॒वी काव्ये॑न । वरा॑य ते घृ॒तव॑न्तः सु॒तास॒: स्वाद्म॑न्भवन्तु पी॒तये॒ मधू॑नि ॥
mā́tre nu te sumíte indra pū́rvī dyáur májmanā pṛthivī́ kā́vyena | várāya te ghṛtávantaḥ sutā́saḥ svā́dman bhavantu pītáye mádhūni ||
In your good measuring, O Indra, the ancient pair—Heaven by its greatness and Earth by the seer’s shaping—stand as a mother’s frame. For your choosing, let the pressed Soma-draughts, rich with clarified light, become sweet in relish for your drinking: may the delight be pure and luminous in the vessel.
मात्रे॒ इति॑ । नु । ते॒ । सुमि॑ते॒ इति॒ सुऽमि॑ते । इ॒न्द्र॒ । पू॒र्वी इति॑ । द्यौः । म॒ज्मना॑ । पृ॒थि॒वी । काव्ये॑न । वरा॑य । ते॒ । घृ॒तऽव॑न्तः । सु॒तासः॑ । स्वाद्म॑न् । भ॒व॒न्तु॒ । पी॒तये॑ । मधू॑नि ॥मात्रे इति । नु । ते । सुमिते इति सुमिते । इन्द्र । पूर्वी इति । द्यौः । मज्मना । पृथिवी । काव्येन । वराय । ते । घृतवन्तः । सुतासः । स्वाद्मन् । भवन्तु । पीतये । मधूनि ॥mātreiti | nu | te | sumiteitisu-mite | indra | pūrvī iti | dyauḥ | majmanā | pṛthivī | kāvyena | varāya | te | ghṛta-vantaḥ | sutāsaḥ | svādman | bhavantu | pītaye | madhūni