Sukta 10.29
व्यानळिन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः । आ स्मा रथं न पृतनासु तिष्ठ यं भद्रया सुमत्या चोदयासे ॥
व्या॑न॒ळिन्द्र॒: पृत॑ना॒: स्वोजा॒ आस्मै॑ यतन्ते स॒ख्याय॑ पू॒र्वीः । आ स्मा॒ रथं॒ न पृत॑नासु तिष्ठ॒ यं भ॒द्रया॑ सुम॒त्या चो॒दया॑से ॥
vyā́naḷ indráḥ pṛ́tanāḥ svójā ā́ asmai yatante sakhyā́ya pūrvī́ḥ | ā́ smā ráthaṃ ná pṛ́tanāsu tiṣṭha yáṃ bhadráyā sumatyā́ codáyāse ||
Indra has spread out the battles by his own force; the many ancient powers strive toward him for comradeship. Stand here, like a chariot amid the battles—he whom you impel forward by the happy, luminous right-mindedness.
वि । आ॒न॒ट् । इन्द्रः॑ । पृत॑नाः । सु॒ऽओजाः॑ । आ । अ॒स्मै॒ । य॒त॒न्ते॒ । स॒ख्याय॑ । पू॒र्वीः । आ । स्म॒ । रथ॑म् । न । पृत॑नासु । ति॒ष्ठ॒ । यम् । भ॒द्रया॑ । सु॒ऽम॒त्या । चो॒दया॑से ॥वि । आनट् । इन्द्रः । पृतनाः । सुओजाः । आ । अस्मै । यतन्ते । सख्याय । पूर्वीः । आ । स्म । रथम् । न । पृतनासु । तिष्ठ । यम् । भद्रया । सुमत्या । चोदयासे ॥vi | ānaṭ | indraḥ | pṛtanāḥ | su-ojāḥ | ā | asmai | yatante | sakhyāya | pūrvīḥ | ā | sma | ratham | na | pṛtanāsu | tiṣṭha | yam | bhadrayā | su-matyā | codayāse