Sukta 10.29
कदु द्युम्नमिन्द्र त्वावतो नॄन्कया धिया करसे कन्न आगन् । मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यदसन्मनीषाः ॥
कदु॑ द्यु॒म्नमि॑न्द्र॒ त्वाव॑तो॒ नॄन्कया॑ धि॒या क॑रस॒य कन्न॒ आग॑न् । मि॒त्रो न स॒त्य उ॑रुगाय भृ॒त्या अन्ने॑ समस्य॒ यदस॑न्मनी॒षाः ॥
kád u dyumnám indra tvā́vato nṝ́n káyā dhiyā́ karase kán na ā́gan | mitró ná satyá urugāya bhṛtyā́ anné samasya yád ásan manīṣā́ḥ ||
When will the luminous power come to men who are yours, O Indra? By what thought will you fashion it, and when will you arrive for us? Like a true Mitra, wide-going, you become serviceable for our fostering—when our inspired thoughts are in harmony with the nourishment of the sacrifice.
कत् । ऊँ॒ इति॑ । द्यु॒म्नम् । इ॒न्द्र॒ । त्वाऽव॑तः । नॄन् । कया॑ । धि॒या । क॒र॒से॒ । कत् । नः॒ । आ । अ॒ग॒न् । मि॒त्रः । न । स॒त्यः । उ॒रु॒ऽगा॒य॒ । भृ॒त्यै । अन्ने॑ । स॒म॒स्य॒ । यत् । अस॑न् । म॒नी॒षाः ॥कत् । ऊँ इति । द्युम्नम् । इन्द्र । त्वावतः । नॄन् । कया । धिया । करसे । कत् । नः । आ । अगन् । मित्रः । न । सत्यः । उरुगाय । भृत्यै । अन्ने । समस्य । यत् । असन् । मनीषाः ॥kat | oṃ iti | dyumnam | indra | tvāvataḥ | nṝn | kayā | dhiyā | karase | kat | naḥ | ā | agan | mitraḥ | na | satyaḥ | uru-gāya | bhṛtyai | anne | samasya | yat | asan | manīṣāḥ