Sukta 10.29
कस्ते मद इन्द्र रन्त्यो भूद्दुरो गिरो अभ्युग्रो वि धाव । कद्वाहो अर्वागुप मा मनीषा आ त्वा शक्यामुपमं राधो अन्नैः ॥
कस्ते॒ मद॑ इन्द्र॒ रन्त्यो॑ भू॒द्दुरो॒ गिरो॑ अ॒भ्यु१॒॑ग्रो वि धा॑व । कद्वाहो॑ अ॒र्वागुप॑ मा मनी॒षा आ त्वा॑ शक्यामुप॒मं राधो॒ अन्नै॑: ॥
kás te máda indra rántyo bhūd dúro gíro abhyùgro ví dhāva | kád vā́ho arvā́g úpa mā manīṣā́ ā́ tvā śakyām upamáṃ rā́dho annáiḥ ||
What was your rapture, O Indra, that became delighting—so that fierce, you rush forth against the hard barriers with the word? When will the bringing-force turn hither? Let my thought come near, that I may be able to reach you with a fitting offering of plenitude, with the nourishments that sustain the right exchange.
कः । ते॒ । मदः॑ । इ॒न्द्र॒ । रन्त्यः॑ । भू॒त् । दुरः॑ । गिरः॑ । अ॒भि । उ॒ग्रः । वि । धा॒व॒ । कत् । वाहः॑ । अ॒र्वाक् । उप॑ । मा॒ । म॒नी॒षा । आ । त्वा॒ । श॒क्या॒म् । उ॒प॒ऽमम् । राधः॑ । अन्नैः॑ ॥कः । ते । मदः । इन्द्र । रन्त्यः । भूत् । दुरः । गिरः । अभि । उग्रः । वि । धाव । कत् । वाहः । अर्वाक् । उप । मा । मनीषा । आ । त्वा । शक्याम् । उपमम् । राधः । अन्नैः ॥kaḥ | te | madaḥ | indra | rantyaḥ | bhūt | duraḥ | giraḥ | abhi | ugraḥ | vi | dhāva | kat | vāhaḥ | arvāk | upa | mā | manīṣā | ā | tvā | śakyām | upa-mam | rādhaḥ | annaiḥ