Sukta 10.29
प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम् । अनु त्रिशोकः शतमावहन्नॄन्कुत्सेन रथो यो असत्ससवान् ॥
प्र ते॑ अ॒स्या उ॒षस॒: प्राप॑रस्या नृ॒तौ स्या॑म॒ नृत॑मस्य नृ॒णाम् । अनु॑ त्रि॒शोक॑: श॒तमाव॑ह॒न्नॄन्कुत्से॑न॒ रथो॒ यो अस॑त्सस॒वान् ॥
prá te asyā́ uṣásaḥ práparasya nṛtaú syāma nṛtámasya nṛṇā́m | ánu triśókaḥ śatám ā́vahan nṝ́n kútsena rátho yó ásat sasavā́n ||
Forward for you with this Dawn and with the later Dawn: may we be in the victorious movement of the most victorious among men. Following Triśoka, the chariot that was, together with Kutsa, bore a hundred men—so may the divine Force carry us beyond the limiting darkness into the many powers of the journey.
प्र । ते॒ । अ॒स्याः । उ॒षसः॑ । प्र । अप॑रस्याः । नृ॒तौ । स्या॒म॒ । नृऽत॑मस्य । नृ॒णाम् । अनु॑ । त्रि॒ऽशोकः॑ । श॒तम् । आ । अ॒व॒ह॒न् । नॄन् । कुत्से॑न । रथः॑ । यः । अस॑त् । स॒स॒ऽवान् ॥प्र । ते । अस्याः । उषसः । प्र । अपरस्याः । नृतौ । स्याम । नृतमस्य । नृणाम् । अनु । त्रिशोकः । शतम् । आ । अवहन् । नॄन् । कुत्सेन । रथः । यः । असत् । ससवान् ॥pra | te | asyāḥ | uṣasaḥ | pra | aparasyāḥ | nṛtau | syāma | nṛ-tamasya | nṛṇām | anu | tri-śokaḥ | śatam | ā | avahan | nṝn | kutsena | rathaḥ | yaḥ | asat | sasa-vān