Sukta 10.29
वने न वा यो न्यधायि चाकञ्छुचिर्वां स्तोमो भुरणावजीगः । यस्येदिन्द्रः पुरुदिनेषु होता नृणां नर्यो नृतमः क्षपावान् ॥
वने॒ न वा॒ यो न्य॑धायि चा॒कञ्छुचि॑र्वां॒ स्तोमो॑ भुरणावजीगः । यस्येदिन्द्र॑: पुरु॒दिने॑षु॒ होता॑ नृ॒णां नर्यो॒ नृत॑मः क्ष॒पावा॑न् ॥
vané ná vā́ yó nyàdhāyi cākáñ śúcir vāṃ stómō bhuraṇāv ajīgah | yásyed índraḥ purudíneṣu hótā nṛṇā́ṃ náryo nṛtámaḥ kṣapā́vān ||
As if in a forest, a pure and eager hymn has been set down for you two, and it stirs the strong ones to movement. For him Indra becomes, through many days, the invoking priest of men—the manly power, the most victorious, master of the nights: he calls the Light through the stretches of obscurity.
वने॑ । न । वा॒ । यः । नि । अ॒धा॒यि॒ । चा॒कन् । शुचिः॑ । वा॒म् । स्तोमः॑ । भु॒र॒णौ॒ । अ॒जी॒ग॒रिति॑ । यस्य॑ । इत् । इन्द्रः॑ । पु॒रु॒ऽदिने॑षु । होता॑ । नृ॒णाम् । नर्यः॑ । नृऽत॑मः । क्ष॒पाऽवा॑न् ॥वने । न । वा । यः । नि । अधायि । चाकन् । शुचिः । वाम् । स्तोमः । भुरणौ । अजीगरिति । यस्य । इत् । इन्द्रः । पुरुदिनेषु । होता । नृणाम् । नर्यः । नृतमः । क्षपावान् ॥vane | na | vā | yaḥ | ni | adhāyi | cākan | śuciḥ | vām | stomaḥ | bhuraṇau | ajīgariti | yasya | it | indraḥ | puru-dineṣu | hotā | nṛṇām | naryaḥ | nṛ-tamaḥ | kṣapāvān