Sukta 10.27
सं यद्वयं यवसादो जनानामहं यवाद उर्वज्रे अन्तः । अत्रा युक्तोऽवसातारमिच्छादथो अयुक्तं युनजद्ववन्वान् ॥
सं यद्वयं॑ यव॒सादो॒ जना॑नाम॒हं य॒वाद॑ उ॒र्वज्रे॑ अ॒न्तः । अत्रा॑ यु॒क्तो॑ऽवसा॒तार॑मिच्छा॒दथो॒ अयु॑क्तं युनजद्वव॒न्वान् ॥
sáṁ yád vayáṁ yavasā́do jánānām aháṁ yavā́da urúvajre ántaḥ | átrā yuktó ’vasātā́ram icchād átho ayúktaṁ yunajad vavanvā́n ||
When we, feeders on the herbage among men, and I, eater of the grain, are gathered within the wide field of the thunder-force, then the yoked power seeks the bringer of help; and the power not yet yoked is harnessed by the one who wins.
सम् । यत् । वय॑म् । य॒व॒स॒ऽअदः॑ । जना॑नाम् । अ॒हम् । य॒व॒ऽअदः॑ । उ॒रु॒ऽअज्रे॑ । अ॒न्तरिति॑ । अत्र॑ । यु॒क्तः॑ । अ॒व॒ऽसा॒तार॑म् । इ॒च्छा॒त् । अथो॒ इति॑ । अयु॑क्तम् । यु॒न॒ज॒त् । व॒व॒न्वान् ॥सम् । यत् । वयम् । यवसअदः । जनानाम् । अहम् । यवअदः । उरुअज्रे । अन्तरिति । अत्र । युक्तः । अवसातारम् । इच्छात् । अथो इति । अयुक्तम् । युनजत् । ववन्वान् ॥sam | yat | vayam | yavasa-adaḥ | janānām | aham | yava-adaḥ | uru-ajre | antariti | atra | yuktaḥ | ava-sātāram | icchāt | atho iti | ayuktam | yunajat | vavanvān