Sukta 10.27
अत्रेदु मे मंससे सत्यमुक्तं द्विपाच्च यच्चतुष्पात्संसृजानि । स्त्रीभिर्यो अत्र वृषणं पृतन्यादयुद्धो अस्य वि भजानि वेदः ॥
अत्रेदु॑ मे मंससे स॒त्यमु॒क्तं द्वि॒पाच्च॒ यच्चतु॑ष्पात्संसृ॒जानि॑ । स्त्री॒भिर्यो अत्र॒ वृष॑णं पृत॒न्यादयु॑द्धो अस्य॒ वि भ॑जानि॒ वेद॑: ॥
átréd u me maṁsase satyám uktáṁ dvipā́c ca yác catúṣpāt saṁsṛjā́ni | strī́bhir yó átra vṛ́ṣaṇaṁ pṛtanyā́d ayúddho asya ví bhajāni védaḥ ||
Here indeed I hold in mind a truth that is spoken: I can set in right union the two-footed and the four-footed powers. But whoever here makes battle against the Bull with the women-forces, being himself without the true fight, I, knowing, apportion him out—separating and limiting his share.
अत्र॑ । इत् । ऊँ॒ इति॑ । मे॒ । मं॒स॒से॒ । स॒त्यम् । उ॒क्तम् । द्वि॒ऽपात् । च॒ । यत् । चतुः॑ऽपात् । स॒म्ऽसृ॒जानि॑ । स्त्री॒ऽभिः । यः । अत्र॑ । वृष॑णम् । पृ॒त॒न्यात् । अयु॑द्धः । अ॒स्य॒ । वि । भ॒जा॒नि॒ । वेदः॑ ॥अत्र । इत् । ऊँ इति । मे । मंससे । सत्यम् । उक्तम् । द्विपात् । च । यत् । चतुःपात् । सम्सृजानि । स्त्रीभिः । यः । अत्र । वृषणम् । पृतन्यात् । अयुद्धः । अस्य । वि । भजानि । वेदः ॥atra | it | oṃ iti | me | maṃsase | satyam | uktam | dvi-pāt | ca | yat | catuḥ-pāt | sam-sṛjāni | strī-bhiḥ | yaḥ | atra | vṛṣaṇam | pṛtanyāt | ayuddhaḥ | asya | vi | bhajāni | vedaḥ