Sukta 10.27
गावो यवं प्रयुता अर्यो अक्षन्ता अपश्यं सहगोपाश्चरन्तीः । हवा इदर्यो अभितः समायन्कियदासु स्वपतिश्छन्दयाते ॥
गावो॒ यवं॒ प्रयु॑ता अ॒र्यो अ॑क्ष॒न्ता अ॑पश्यं स॒हगो॑पा॒श्चर॑न्तीः । हवा॒ इद॒र्यो अ॒भित॒: समा॑य॒न्किय॑दासु॒ स्वप॑तिश्छन्दयाते ॥
gā́vo yávaṁ práyutā aryó akṣan tā́ apaśyaṁ sahá-gopāś cárantīḥ | hávā íd aryó abhítaḥ sám āyan kíyad āsu svá-patiś chandayāte ||
The cows—rays yoked to the grain of force—moved under the noble impulse; I saw them moving with their guardians. The call of the Arya gathered from every side: how far in them does the true lord of the self consent and delight?
गाव॑ । यव॑म् । प्रऽयु॑ताः । अ॒र्यः । अ॒क्ष॒न् । ताः । अ॒प॒श्य॒म् । स॒हऽगो॑पाः । चर॑न्तीः । हवाः॑ । इत् । अ॒र्यः । अ॒भितः॑ । सम् । आ॒य॒न् । किय॑त् । आ॒सु॒ । स्वऽप॑तिः । छ॒न्द॒या॒ते॒ ॥गाव । यवम् । प्रयुताः । अर्यः । अक्षन् । ताः । अपश्यम् । सहगोपाः । चरन्तीः । हवाः । इत् । अर्यः । अभितः । सम् । आयन् । कियत् । आसु । स्वपतिः । छन्दयाते ॥gāva | yavam | pra-yutāḥ | aryaḥ | akṣan | tāḥ | apaśyam | saha-gopāḥ | carantīḥ | havāḥ | it | aryaḥ | abhitaḥ | sam | āyan | kiyat | āsu | sva-patiḥ | chandayāte