Sukta 10.27
न वा उ मां वृजने वारयन्ते न पर्वतासो यदहं मनस्ये । मम स्वनात्कृधुकर्णो भयात एवेदनु द्यून्किरणः समेजात् ॥
न वा उ॒ मां वृ॒जने॑ वारयन्ते॒ न पर्व॑तासो॒ यद॒हं म॑न॒स्ये । मम॑ स्व॒नात्कृ॑धु॒कर्णो॑ भयात ए॒वेदनु॒ द्यून्कि॒रण॒: समे॑जात् ॥
ná vā u mā́ṁ vṛjáne vārayante ná párvatāso yád aháṁ manasyé | máma svanā́t kṛdhu-kárṇo bhayāta evéd ánu dyū́n kiraṇáḥ sám ejāt ||
Neither the tangled ways nor the mountains can hold me back when I set the will within. At the sound that goes forth from me the hard-eared fear recoils; and the ray of light, following the days, gathers itself and moves in harmony.
न । वै । ऊँ॒ इति॑ । माम् । वृ॒जने॑ । वा॒र॒य॒न्ते॒ । न । पर्व॑तासः । यत् । अ॒हम् । म॒न॒स्ये । मम॑ । स्व॒नात् । कृ॒धु॒ऽकर्णः॑ । भ॒या॒ते॒ । ए॒व । इत् । अनु॑ । द्यून् । कि॒रणः॑ । सम् । ए॒जा॒त् ॥न । वै । ऊँ इति । माम् । वृजने । वारयन्ते । न । पर्वतासः । यत् । अहम् । मनस्ये । मम । स्वनात् । कृधुकर्णः । भयाते । एव । इत् । अनु । द्यून् । किरणः । सम् । एजात् ॥na | vai | oṃ iti | mām | vṛjane | vārayante | na | parvatāsaḥ | yat | aham | manasye | mama | svanāt | kṛdhu-karṇaḥ | bhayāte | eva | it | anu | dyūn | kiraṇaḥ | sam | ejāt