Sukta 10.27
यदज्ञातेषु वृजनेष्वासं विश्वे सतो मघवानो म आसन् । जिनामि वेत्क्षेम आ सन्तमाभुं प्र तं क्षिणां पर्वते पादगृह्य ॥
यदज्ञा॑तेषु वृ॒जने॒ष्वासं॒ विश्वे॑ स॒तो म॒घवा॑नो म आसन् । जि॒नामि॒ वेत्क्षेम॒ आ सन्त॑मा॒भुं प्र तं क्षि॑णां॒ पर्व॑ते पाद॒गृह्य॑ ॥
yád-ajñā́teṣu vṛjáneṣv-ā́saṁ víśve sató maghávāno ma ā́san | jinā́mi vét kṣém̐ ā́ sántam ā́bhuṁ prá táṁ kṣiṇā́m párvate pāda-gṛ́hya ||
When I was in unknown and tangled passages of existence, all the powers that uphold plenitude stood with me. I conquer; I find the safe and settled state. Seizing the foot-hold, I press forward and wear down the obstructer even on the mountain of difficulty.
यत् । अज्ञा॑तेषु । वृ॒जने॑षु । आस॑म् । विश्वे॑ । स॒तः । म॒घऽवा॑नः । मे॒ । आ॒स॒न् । जि॒नामि॑ । वा॒ । इत् । क्षेमे॑ । आ । सन्त॑म् । आ॒भुम् । प्र । तम् । क्षि॒णा॒म् । पर्व॑ते । पा॒द॒ऽगृह्य॑ ॥यत् । अज्ञातेषु । वृजनेषु । आसम् । विश्वे । सतः । मघवानः । मे । आसन् । जिनामि । वा । इत् । क्षेमे । आ । सन्तम् । आभुम् । प्र । तम् । क्षिणाम् । पर्वते । पादगृह्य ॥yat | ajñāteṣu | vṛjaneṣu | āsam | viśve | sataḥ | magha-vānaḥ | me | āsan | jināmi | vā | it | kṣeme | ā | santam | ābhum | pra | tam | kṣiṇām | parvate | pāda-gṛhya