Sukta 10.27
नाहं तं वेद य इति ब्रवीत्यदेवयून्त्समरणे जघन्वान् । यदावाख्यत्समरणमृघावदादिद्ध मे वृषभा प्र ब्रुवन्ति ॥
नाहं तं वे॑द॒ य इति॒ ब्रवी॒त्यदे॑वयून्त्स॒मर॑णे जघ॒न्वान् । य॒दावाख्य॑त्स॒मर॑ण॒मृघा॑व॒दादिद्ध॑ मे वृष॒भा प्र ब्रु॑वन्ति ॥
nā́haṃ táṃ véda yá ití bravī́ty ádevayūn samaráṇe jaghánvān | yadā́vākhyat samaráṇam ṛ́ghāvad ā́d íd dha me vṛṣabhā́ prá bruvanti ||
I do not know that one who says ‘thus’—yet he has slain the godless in the battle. When he has clearly seen the clash like a charging onset, then indeed my bull-powers speak forth within me.
न । अ॒हम् । तम् । वे॒द॒ । यः । इति॑ । ब्रवी॑ति । अदे॑वऽयून् । स॒म्ऽअर॑णे । ज॒घ॒न्वान् । य॒दा । अ॒व॒ऽअख्य॑त् । स॒म्ऽअर॑णम् । ऋघा॑वत् । आत् । इत् । ह॒ । मे॒ । वृ॒ष॒भा । प्र । ब्रु॒व॒न्ति॒ ॥न । अहम् । तम् । वेद । यः । इति । ब्रवीति । अदेवयून् । सम्अरणे । जघन्वान् । यदा । अवअख्यत् । सम्अरणम् । ऋघावत् । आत् । इत् । ह । मे । वृषभा । प्र । ब्रुवन्ति ॥na | aham | tam | veda | yaḥ | iti | bravīti | adeva-yūn | sam-araṇe | jaghanvān | yadā | ava-akhyat | sam-araṇam | ṛghāvat | āt | it | ha | me | vṛṣabhā | pra | bruvant i