Sukta 10.27
यदीदहं युधये संनयान्यदेवयून्तन्वा शूशुजानान् । अमा ते तुम्रं वृषभं पचानि तीव्रं सुतं पञ्चदशं नि षिञ्चम् ॥
यदीद॒हं यु॒धये॑ सं॒नया॒न्यदे॑वयून्त॒न्वा॒३॒॑ शूशु॑जानान् । अ॒मा ते॒ तुम्रं॑ वृष॒भं प॑चानि ती॒व्रं सु॒तं प॑ञ्चद॒शं नि षि॑ञ्चम् ॥
yadī́d aháṃ yudháye saṃnáyāny ádevayūn tanvā́ śū́śujānān | amā́ te túmraṃ vṛṣabháṃ pacāni tī́vraṃ sutáṃ pañcadaśáṃ ní siñcam ||
When I go forth to battle and bring the godless together—those who swell in the body’s pride—then at home for you I prepare the strong bull-force; the fierce pressed Soma I pour out, the full fifteenfold measure.
यदि॑ । इत् । अ॒हम् । यु॒धये॑ । स॒म्ऽनया॑नि । अदे॑वऽयून् । त॒न्वा॑ । शूशु॑जानान् । अ॒मा । ते॒ । तुम्र॑म् । वृ॒ष॒भम् । प॒चा॒नि॒ । ती॒व्रम् । सु॒तम् । प॒ञ्च॒ऽद॒शम् । नि । सि॒ञ्च॒म् ॥यदि । इत् । अहम् । युधये । सम्नयानि । अदेवयून् । तन्वा । शूशुजानान् । अमा । ते । तुम्रम् । वृषभम् । पचानि । तीव्रम् । सुतम् । पञ्चदशम् । नि । सिञ्चम् ॥yadi | it | aham | yudhaye | sam-nayāni | adeva-yūn | tanvā | śūśujānān | amā | te | tumram | vṛṣabham | pacāni | tīvram | sutam | pañca-daśam | ni | siñcam