Sukta 10.27
अयं यो वज्रः पुरुधा विवृत्तोऽवः सूर्यस्य बृहतः पुरीषात् । श्रव इदेना परो अन्यदस्ति तदव्यथी जरिमाणस्तरन्ति ॥
अ॒यं यो वज्र॑: पुरु॒धा विवृ॑त्तो॒ऽवः सूर्य॑स्य बृह॒तः पुरी॑षात् । श्रव॒ इदे॒ना प॒रो अ॒न्यद॑स्ति॒ तद॑व्य॒थी ज॑रि॒माण॑स्तरन्ति ॥
ayáṃ yó vájraḥ purudhā́ vívṛtto 'váḥ sū́ryasya bṛhatáḥ purīṣā́t | śráva íd enā́ paráḥ anyád ásti tád avyathī́ jarimā́ṇaḥ taranti ||
This thunderbolt, turned in many ways, is the help of the Sun from the Vast abundance. For by it there is a farther, another fame: the unshaken cross beyond the wearing down of time.
अ॒यम् । यः । वज्रः॑ । पु॒रु॒धा । विऽवृ॑त्तः । अ॒वः । सूर्य॑स्य । बृ॒ह॒तः । पुरी॑षात् । श्रवः॑ । इत् । ए॒ना । प॒रः । अ॒न्यत् । अ॒स्ति॒ । तत् । अ॒व्य॒थी । ज॒रि॒माणः॑ । त॒र॒न्ति॒ ॥अयम् । यः । वज्रः । पुरुधा । विवृत्तः । अवः । सूर्यस्य । बृहतः । पुरीषात् । श्रवः । इत् । एना । परः । अन्यत् । अस्ति । तत् । अव्यथी । जरिमाणः । तरन्ति ॥ayam | yaḥ | vajraḥ | purudhā | vi-vṛttaḥ | avaḥ | sūryasya | bṛhataḥ | purīṣāt | śravaḥ | it | enā | paraḥ | anyat | asti | tat | avyathī | jarimāṇaḥ | taranti