Sukta 10.27
एतौ मे गावौ प्रमरस्य युक्तौ मो षु प्र सेधीर्मुहुरिन्ममन्धि । आपश्चिदस्य वि नशन्त्यर्थं सूरश्च मर्क उपरो बभूवान् ॥
ए॒तौ मे॒ गावौ॑ प्रम॒रस्य॑ यु॒क्तौ मो षु प्र से॑धी॒र्मुहु॒रिन्म॑मन्धि । आप॑श्चिदस्य॒ वि न॑श॒न्त्यर्थं॒ सूर॑श्च म॒र्क उप॑रो बभू॒वान् ॥
etáu me gā́vau pra-marásya yuktáu mó ṣú prá sedhīr múhur ín mamandhi | ā́paś cid asya ví naśanty árthaṃ sū́raś ca márka úparo babhūvān ||
These two Cows of mine are yoked to the smiter; do not hinder them—again and again they intoxicate me with their force. Even the waters scatter his aim; and the Sun, the darkness, has become the upper cover—until the right victory is won.
ए॒तौ । मे॒ । गावौ॑ । प्र॒ऽम॒रस्य॑ । यु॒क्तौ । मो इति॑ । सु । प्र । से॒धीः॒ । मुहुः॑ । इत् । म॒म॒न्धि॒ । आपः॑ । चि॒त् । अ॒स्य॒ । वि । न॒श॒न्ति॒ । अर्थ॑म् । सूरः॑ । च॒ । म॒र्कः । उप॑रः । ब॒भू॒वान् ॥एतौ । मे । गावौ । प्रमरस्य । युक्तौ । मो इति । सु । प्र । सेधीः । मुहुः । इत् । ममन्धि । आपः । चित् । अस्य । वि । नशन्ति । अर्थम् । सूरः । च । मर्कः । उपरः । बभूवान् ॥etau | me | gāvau | pra-marasya | yuktau | mo iti | su | pra | sedhīḥ | muhuḥ | it | mamandhi | āpaḥ | cit | asya | vi | naśanti | atharm | sūraḥ | ca | markaḥ | uparaḥ | babhūvān