Sukta 10.27
असत्सु मे जरितः साभिवेगो यत्सुन्वते यजमानाय शिक्षम् । अनाशीर्दामहमस्मि प्रहन्ता सत्यध्वृतं वृजिनायन्तमाभुम् ॥
अस॒त्सु मे॑ जरित॒: साभि॑वे॒गो यत्सु॑न्व॒ते यज॑मानाय॒ शिक्ष॑म् । अना॑शीर्दाम॒हम॑स्मि प्रह॒न्ता स॑त्य॒ध्वृतं॑ वृजिना॒यन्त॑मा॒भुम् ॥
asátsu me jaritar sá̄bhivegó yát sunvaté yájamānāya śíkṣam | anā́śīrdām ahám asmi prahantā́ satyádhvṛtaṃ vṛjināyántaṃ ābhúm ||
Among the untrue states, O singer, my onset is swift when I am taught for the sacrificer who presses. I am the smiter of the joyless giver; I strike the crooked-moving one who holds to a false law against the truth.
अस॑त् । सु । मे॒ । ज॒रि॒त॒रिति॑ । सः । अ॒भि॒ऽवे॒गः । यत् । सु॒न्व॒ते । यज॑मानाय । शिक्ष॑म् । अना॑शीःऽदाम् । अ॒हम् । अ॒स्मि॒ । प्र॒ऽह॒न्ता । स॒त्य॒ऽध्वृत॑म् । वृ॒जि॒न॒ऽयन्त॑म् । आ॒भुम् ॥असत् । सु । मे । जरितरिति । सः । अभिवेगः । यत् । सुन्वते । यजमानाय । शिक्षम् । अनाशीःदाम् । अहम् । अस्मि । प्रहन्ता । सत्यध्वृतम् । वृजिनयन्तम् । आभुम् ॥asat | su | me | jaritariti | saḥ | abhi-vegaḥ | yat | sunvate | yajamānāya | śikṣam | anāśīḥ-dām | aham | asmi | pra-hantā | satya-dhvṛtam | vṛjina-yantam | ābhum