Sukta 10.27
पीवानं मेषमपचन्त वीरा न्युप्ता अक्षा अनु दीव आसन् । द्वा धनुं बृहतीमप्स्वन्तः पवित्रवन्ता चरतः पुनन्ता ॥
पीवा॑नं मे॒षम॑पचन्त वी॒रा न्यु॑प्ता अ॒क्षा अनु॑ दी॒व आ॑सन् । द्वा धनुं॑ बृह॒तीम॒प्स्व१॒॑न्तः प॒वित्र॑वन्ता चरतः पु॒नन्ता॑ ॥
pīvā́naṃ मेṣám apacanta vīrā́ ní-uptā́ akṣā́ ánu dīvé āsan | dvā́ dhánuṃ bṛhatī́m apsv àntáḥ pavítravantā carataḥ punántā ||
The heroes cooked the well-fed ram; the dice were cast and followed the day’s course. Two great bows move within the waters, bearing the purifier; they go about cleansing—making the being fit for the truth.
पीवा॑नम् । मे॒षम् । अ॒प॒च॒न्त॒ । वी॒राः । निऽउ॑प्ताः । अ॒क्षाः । अनु॑ । दी॒वे । आ॒स॒न् । द्वा । धनु॑म् । बृ॒ह॒तीम् । अ॒प्ऽसु । अ॒न्तरिति॑ । प॒वित्र॑ऽवन्ता । च॒र॒तः॒ । पु॒नन्ता॑ ॥पीवानम् । मेषम् । अपचन्त । वीराः । निउप्ताः । अक्षाः । अनु । दीवे । आसन् । द्वा । धनुम् । बृहतीम् । अप्सु । अन्तरिति । पवित्रवन्ता । चरतः । पुनन्ता ॥pīvānam | meṣam | apacanta | vīrāḥ | ni-uptāḥ | akṣāḥ | anu | dīve | āsan | dvā | dhanum | bṛhatīm | ap-su | antariti | pavitra-vantā | carataḥ | punantā