Sukta 10.27
दशानामेकं कपिलं समानं तं हिन्वन्ति क्रतवे पार्याय । गर्भं माता सुधितं वक्षणास्ववेनन्तं तुषयन्ती बिभर्ति ॥
द॒शा॒नामेकं॑ कपि॒लं स॑मा॒नं तं हि॑न्वन्ति॒ क्रत॑वे॒ पार्या॑य । गर्भं॑ मा॒ता सुधि॑तं व॒क्षणा॒स्ववे॑नन्तं तु॒षय॑न्ती बिभर्ति ॥
daśānā́m ékaṃ kapiláṃ samānám táṃ hinvanti krátave pā́ryāya | gárbhaṃ mātā́ sुदhitaṃ vakṣaṇā́sv ávenantaṃ tuṣáyantī bibharti ||
Of the ten, one tawny power is the same in essence; they drive it onward for the will and for the crossing beyond. The Mother bears the well-set embryo in her breasts, delighting it, not wounding it—nourishing its growth into form.
द॒शा॒नाम् । एक॑म् । क॒पि॒लम् । स॒मा॒नम् । तम् । हि॒न्व॒न्ति॒ । क्रत॑वे । पार्या॑य । गर्भ॑म् । मा॒ता । सुऽधि॑तम् । व॒क्षणा॑सु । अवे॑नन्तम् । तु॒षय॑न्ती । बि॒भ॒र्ति॒ ॥दशानाम् । एकम् । कपिलम् । समानम् । तम् । हिन्वन्ति । क्रतवे । पार्याय । गर्भम् । माता । सुधितम् । वक्षणासु । अवेनन्तम् । तुषयन्ती । बिभर्ति ॥daśānām | ekam | kapilam | samānam | tam | hinvanti | kratave | pāryāya | gabharm | mātā | su-dhitam | vakṣaṇāsu | avenantam | tuṣayantī | bibharti