Sukta 10.27
बृहन्नच्छायो अपलाशो अर्वा तस्थौ माता विषितो अत्ति गर्भः । अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः ॥
बृ॒हन्न॑च्छा॒यो अ॑पला॒शो अर्वा॑ त॒स्थौ मा॒ता विषि॑तो अत्ति॒ गर्भ॑: । अ॒न्यस्या॑ व॒त्सं रि॑ह॒ती मि॑माय॒ कया॑ भु॒वा नि द॑धे धे॒नुरूध॑: ॥
bṛhánn acchāyó apalāśó árvā tasthau mātā víṣito atti gárbhaḥ | anyásyā vatsáṃ rihatī mimāya káyā bhuvā ní dadhe dhénur ū́dhaḥ ||
The Vast, the bright-hued, leafless Steed stands firm. The Mother—driven by the inner impulsion—feeds the growing embryo. Licking the calf of another, she lows: by what becoming of being does the Cow set down her udder?
बृ॒हन् । अ॒च्छा॒यः । अ॒प॒ला॒शः । अर्वा॑ । त॒स्थौ । मा॒ता । विऽसि॑तः । अ॒त्ति॒ । गर्भः॑ । अ॒न्यस्याः॑ । व॒त्सम् । रि॒ह॒ती । मि॒मा॒य॒ । कया॑ । भु॒वा । नि । द॒धे॒ । धे॒नुः । ऊधः॑ ॥बृहन् । अच्छायः । अपलाशः । अर्वा । तस्थौ । माता । विसितः । अत्ति । गर्भः । अन्यस्याः । वत्सम् । रिहती । मिमाय । कया । भुवा । नि । दधे । धेनुः । ऊधः ॥bṛhan | acchāyaḥ | apalāśaḥ | arvā | tasthau | mātā | vi-sitaḥ | atti | garbhaḥ | anyasyāḥ | vatsam | rihatī | mimāya | kayā | bhuvā | ni | dadhe | dhenuḥ | ūdhaḥ