Sukta 10.27
यस्यानक्षा दुहिता जात्वास कस्तां विद्वाँ अभि मन्याते अन्धाम् । कतरो मेनिं प्रति तं मुचाते य ईं वहाते य ईं वा वरेयात् ॥
यस्या॑न॒क्षा दु॑हि॒ता जात्वास॒ कस्तां वि॒द्वाँ अ॒भि म॑न्याते अ॒न्धाम् । क॒त॒रो मे॒निं प्रति॒ तं मु॑चाते॒ य ईं॒ वहा॑ते॒ य ईं॑ वा वरे॒यात् ॥
yásyā́n-akṣā duhitā́ jā́tv āsa káṣ tā́ṁ vidvā́n abhí manyāte andhā́m | katáró méniṁ práti táṁ mucāte yá īṁ vahā́te yá īṁ vā vareyā́t ||
Whose daughter is without a chariot, who indeed would a knower deem her blind? Which one releases the measure/bond against him—he who carries her, or he who would choose her?
यस्य॑ । अ॒न॒क्षा । दु॒हि॒ता । जातु॑ । आस॑ । कः । ताम् । वि॒द्वान् । अ॒भि । म॒न्या॒ते॒ । अ॒न्धाम् । क॒त॒रः । मे॒निम् । प्रति॑ । तम् । मु॒चा॒ते॒ । यः । ई॒म् । वहा॑ते । यः । ई॒म् । वा॒ । व॒रे॒ऽयात् ॥यस्य । अनक्षा । दुहिता । जातु । आस । कः । ताम् । विद्वान् । अभि । मन्याते । अन्धाम् । कतरः । मेनिम् । प्रति । तम् । मुचाते । यः । ईम् । वहाते । यः । ईम् । वा । वरेयात् ॥yasya | anakṣā | duhitā | jātu | āsa | kaḥ | tām | vidvān | abhi | manyāte | andhām | kataraḥ | menim | prati | tam | mucāte | yaḥ | īm | vahāte | yaḥ | īm | vā | vare--yāt