Sukta 10.26
इनो वाजानां पतिरिनः पुष्टीनां सखा । प्र श्मश्रु हर्यतो दूधोद्वि वृथा यो अदाभ्यः ॥
इ॒नो वाजा॑नां॒ पति॑रि॒नः पु॑ष्टी॒नां सखा॑ । प्र श्मश्रु॑ हर्य॒तो दू॑धो॒द्वि वृथा॒ यो अदा॑भ्यः ॥
inó vājā́nāṃ pátir ináḥ puṣṭīnā́ṃ sákhā | prá śmáśru haryató dū́dhot ví vṛ́thā yó adā́bhyaḥ ||
He is the energizer, lord of plenitudes, the energizer and friend of all increase; he shakes out the golden growth in due measure—he who cannot be deceived.
इ॒नः । वाजा॑नाम् । पतिः॑ । इ॒नः । पु॒ष्टी॒नाम् । सखा॑ । प्र । श्मश्रु॑ । ह॒र्य॒तः । दू॒धो॒त् । वि । वृथा॑ । यः । अदा॑भ्यः ॥इनः । वाजानाम् । पतिः । इनः । पुष्टीनाम् । सखा । प्र । श्मश्रु । हर्यतः । दूधोत् । वि । वृथा । यः । अदाभ्यः ॥inaḥ | vājānām | patiḥ | inaḥ | puṣṭīnām | sakhā | pra | śmaśru | haryataḥ | dūdhot | vi | vṛthā | yaḥ | adābhyaḥ