Sukta 10.25
अयं विप्राय दाशुषे वाजाँ इयर्ति गोमतः । अयं सप्तभ्य आ वरं वि वो मदे प्रान्धं श्रोणं च तारिषद्विवक्षसे ॥
अ॒यं विप्रा॑य दा॒शुषे॒ वाजाँ॑ इयर्ति॒ गोम॑तः । अ॒यं स॒प्तभ्य॒ आ वरं॒ वि वो॒ मदे॒ प्रान्धं श्रो॒णं च॑ तारिष॒द्विव॑क्षसे ॥
ayáṃ viprā́ya dāśúṣe vā́jāṃ iyarti gó-mataḥ | ayáṃ saptábhya ā́ váraṃ ví vo máde prā́ndhaṃ śróṇaṃ ca tā́riṣad vivákṣase ||
This Soma stirs up plenitudes of force (vāja) for the giving seer, rich in rays. This brings the supreme choice for the sevenfold powers; in thy ecstasy thou carriest beyond the blind and the lame— beyond the incapacities— and makest us grow into the wider attainment.
अ॒यम् । विप्रा॑य । दा॒शुषे॑ । वाजा॑न् । इ॒य॒र्ति॒ । गोऽम॑तः । अ॒यम् । स॒प्तऽभ्यः॑ । आ । वर॑म् । वि । वः॒ । मदे॑ । प्र । अ॒न्धम् । श्रो॒णम् । च॒ । ता॒रि॒ष॒त् । विव॑क्षसे ॥अयम् । विप्राय । दाशुषे । वाजान् । इयर्ति । गोमतः । अयम् । सप्तभ्यः । आ । वरम् । वि । वः । मदे । प्र । अन्धम् । श्रोणम् । च । तारिषत् । विवक्षसे ॥ayam | viprāya | dāśuṣe | vājān | iyarti | go--mataḥ | ayam | sapta-bhyaḥ | ā | varam | vi | vaḥ | made | pra | andham | śroṇam | ca | tāriṣat | vivakṣase