Sukta 10.23
स्तोमं त इन्द्र विमदा अजीजनन्नपूर्व्यं पुरुतमं सुदानवे । विद्मा ह्यस्य भोजनमिनस्य यदा पशुं न गोपाः करामहे ॥
स्तोमं॑ त इन्द्र विम॒दा अ॑जीजन॒न्नपू॑र्व्यं पुरु॒तम॑ा सु॒दान॑वे । वि॒द्मा ह्य॑स्य॒ भोज॑नमि॒नस्य॒ यदा प॒शुं न गो॒पाः क॑रामहे ॥
stómaṃ ta indra vimadā́ ajījanann apū́rvyaṃ purutámā sudā́nave | vidmá hy asya bhójanam inásya yadā́ paśúṃ na gopā́ḥ karā́mahe ||
A hymn to you, O Indra, the Vimadas have brought forth—unprecedented, most abundant—for the good giver. For we know the enjoyment of this lordly power: when we make it our own, as herdsmen make secure the cattle (the rays of light/knowledge).
स्तोम॑म् । ते॒ । इ॒न्द्र॒ । वि॒ऽम॒दाः । अ॒जी॒ज॒न॒न् । अपू॑र्व्यम् । पु॒रु॒ऽतम॑म् । सु॒ऽदान॑वे । वि॒द्म । हि । अ॒स्य॒ । भोज॑नम् । इ॒नस्य॑ । यत् । आ । प॒शुम् । न । गो॒पाः । क॒रा॒म॒हे॒ ॥स्तोमम् । ते । इन्द्र । विमदाः । अजीजनन् । अपूर्व्यम् । पुरुतमम् । सुदानवे । विद्म । हि । अस्य । भोजनम् । इनस्य । यत् । आ । पशुम् । न । गोपाः । करामहे ॥stomam | te | indra | vi-madāḥ | ajījanan | apūrvyam | puru-tamam | su-dānave | vidma | hi | asya | bhojanam | inasya | yat | ā | paśum | na | gopāḥ | karāmahe