Sukta 10.23
यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान । तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शवः ॥
यो वा॒चा विवा॑चो मृ॒ध्रवा॑चः पु॒रू स॒हस्राशि॑वा ज॒घान॑ । तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसि पि॒तेव॒ यस्तवि॑षीं वावृ॒धे शव॑: ॥
yó vācā́ vivā́co mṛdhrávācaḥ purū́ sahásrāśivā jaghā́na | tát-tád íd asya páuṃsyaṃ gṛṇīmasi pitā́iva yás táviṣīṃ vāvṛdhé śávaḥ ||
He who by the word strikes down the many—those of perverse speech, of a thousand harmful stratagems; that, that very manhood of his we proclaim. Like a father he who has increased might and strength (in us) by his force.
यः । वा॒चा । विऽवा॑चः । मृ॒ध्रऽवा॑चः । पु॒रु । स॒हस्रा॑ । असि॑वा । ज॒घान॑ । तत्ऽत॑त् । इत् । अ॒स्य॒ । पौंस्य॑म् । गृ॒णी॒म॒सि॒ । पि॒ताऽइ॑व । यः । तवि॑षीम् । व॒वृ॒धे । शवः॑ ॥यः । वाचा । विवाचः । मृध्रवाचः । पुरु । सहस्रा । असिवा । जघान । तत्तत् । इत् । अस्य । पौंस्यम् । गृणीमसि । पिताइव । यः । तविषीम् । ववृधे । शवः ॥yaḥ | vācā | vi-vācaḥ | mṛdhra-vācaḥ | puru | sahasrā | asivā | jaghāna | tat-tat | it | asya | paiṃsyam | gṛṇīmasi | pitāiva | yaḥ | taviṣīm | vavṛdhe | śavaḥ