Sukta 10.23
माकिर्न एना सख्या वि यौषुस्तव चेन्द्र विमदस्य च ऋषेः । विद्मा हि ते प्रमतिं देव जामिवदस्मे ते सन्तु सख्या शिवानि ॥
माकि॑र्न ए॒ना स॒ख्या वि यौ॑षु॒स्तव॑ चेन्द्र विम॒दस्य॑ च॒ ऋषे॑: । वि॒द्मा हि ते॒ प्रम॑तिं देव जामि॒वद॒स्मे ते॑ सन्तु स॒ख्या शि॒वानि॑ ॥
mā́kir na enā́ sakhyā́ ví yauṣus táva cendra vi-madásya ca ṛ́ṣeḥ | vidmā́ hí te prá-matiṃ deva jāmi-vád asmè te santu sakhyā́ śivā́ni ||
Let none at all break apart these friendships—yours, O Indra, and that of the Seer Vimadá. For we know your forward-leading guidance, O God, intimate as one of the same house; may those friendships become for us beneficent and auspicious.
माकिः॑ । नः॒ । ए॒ना । स॒ख्या । वि । यौ॒षुः॒ । तव॑ । च॒ । इ॒न्द्र॒ । वि॒ऽम॒दस्य॑ । च॒ । ऋषेः॑ । वि॒द्म । हि । ते॒ । प्रऽम॑तिम् । दे॒व॒ । जा॒मि॒ऽवत् । अ॒स्मे इति॑ । ते॒ । स॒न्तु॒ । स॒ख्या । शि॒वानि॑ ॥माकिः । नः । एना । सख्या । वि । यौषुः । तव । च । इन्द्र । विमदस्य । च । ऋषेः । विद्म । हि । ते । प्रमतिम् । देव । जामिवत् । अस्मे इति । ते । सन्तु । सख्या । शिवानि ॥mākiḥ | naḥ | enā | sakhyā | vi | yauṣuḥ | tava | ca | indra | vi-madasya | ca | ṛṣeḥ | vidma | hi | te | pra-matim | deva | jāmi-vat | asme iti | te | santu | sakhyā | śivāni