Sukta 10.23
सो चिन्नु वृष्टिर्यूथ्या स्वा सचाँ इन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते । अव वेति सुक्षयं सुते मधूदिद्धूनोति वातो यथा वनम् ॥
सो चि॒न्नु वृ॒ष्टिर्यू॒थ्या॒३॒॑ स्वा सचाँ॒ इन्द्र॒: श्मश्रू॑णि॒ हरि॑ता॒भि प्रु॑ष्णुते । अव॑ वेति सु॒क्षयं॑ सु॒ते मधूदिद्धू॑नोति॒ वातो॒ यथा॒ वन॑म् ॥
só cín nu vṛṣṭír yū́thyā svā́ sacā́ṃ índraḥ śmáśrūṇi hárītābhí pruṣṇute | áva veti su-kṣáyaṃ suté mádhūd íd dhūnoti vā́to yáthā vánam ||
Even so, now the rain in her troop comes with Indra as her own companion; with the tawny powers he sprinkles his beard. He comes down to a fair dwelling; at the pressed honey (Soma) he shakes the being as the wind shakes the forest.
सो इति॑ । चि॒त् । नु । वृ॒ष्टिः । यू॒थ्या॑ । स्वा । सचा॑ । इन्द्रः॑ । श्मश्रू॑णि । हरि॑ता । अ॒भि । प्रु॒ष्णु॒ते॒ । अव॑ । वे॒ति॒ । सु॒ऽक्षय॑म् । सु॒ते । मधु॑ । उत् । इत् । धू॒नो॒ति॒ । वातः॑ । यथा॑ । वन॑म् ॥सो इति । चित् । नु । वृष्टिः । यूथ्या । स्वा । सचा । इन्द्रः । श्मश्रूणि । हरिता । अभि । प्रुष्णुते । अव । वेति । सुक्षयम् । सुते । मधु । उत् । इत् । धूनोति । वातः । यथा । वनम् ॥so iti | cit | nu | vṛṣṭiḥ | yūthyā | svā | sacā | indraḥ | śmaśrūṇi | haritā | abhi | pruṣṇute | ava | veti | su-kṣayam | sute | madhu | ut | it | dhūnoti | vātaḥ | yathā | vanam