Sukta 10.23
यदा वज्रं हिरण्यमिदथा रथं हरी यमस्य वहतो वि सूरिभिः । आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस्पतिः ॥
य॒दा वज्रं॒ हिर॑ण्य॒मिदथा॒ रथं॒ हरी॒ यम॑स्य॒ वह॑तो॒ वि सू॒रिभि॑: । आ ति॑ष्ठति म॒घवा॒ सन॑श्रुत॒ इन्द्रो॒ वाज॑स्य दी॒र्घश्र॑वस॒स्पति॑: ॥
yadā́ vájraṃ híraṇyam íd áthā ráthaṃ hárī yám asya váhato ví sūríbhíḥ | ā́ tíṣṭhati maghávā sánāśruta índro vā́jasya dīrgháśravasaḥ pátiḥ ||
When the thunderbolt of gold, and then the chariot that his two tawny powers bear, are made ready among the illumined seers, then the bountiful Indra, famed from of old, takes his seat—the lord of vāja, master of far-reaching fame.
य॒दा । वज्र॑म् । हिर॑ण्यम् । इत् । अथ॑ । रथ॑म् । हरी॒ इति॑ । यम् । अ॒स्य॒ । वह॑तः । वि । सू॒रिऽभिः॑ । आ । ति॒ष्ठ॒ति॒ । म॒घऽवा॑ । सन॑ऽश्रुतः । इन्द्रः॑ । वाज॑स्य । दी॒र्घऽश्र॑वसः । पतिः॑ ॥यदा । वज्रम् । हिरण्यम् । इत् । अथ । रथम् । हरी इति । यम् । अस्य । वहतः । वि । सूरिभिः । आ । तिष्ठति । मघवा । सनश्रुतः । इन्द्रः । वाजस्य । दीर्घश्रवसः । पतिः ॥yadā | vajram | hiraṇyam | it | atha | ratham | harī iti | yam | asya | vahataḥ | vi | sūri-bhiḥ | ā | tiṣṭhati | magha-vā | sana-śrutaḥ | indraḥ | vājasya | dīrgha-śravasaḥ | patiḥ