Sukta 10.23
हरी न्वस्य या वने विदे वस्विन्द्रो मघैर्मघवा वृत्रहा भुवत् । ऋभुर्वाज ऋभुक्षाः पत्यते शवोऽव क्ष्णौमि दासस्य नाम चित् ॥
हरी॒ न्व॑स्य॒ या वने॑ वि॒दे वस्विन्द्रो॑ म॒घैर्म॒घवा॑ वृत्र॒हा भु॑वत् । ऋ॒भुर्वाज॑ ऋभु॒क्षाः प॑त्यते॒ शवोऽव॑ क्ष्णौमि॒ दास॑स्य॒ नाम॑ चित् ॥
harī́ nv asya yā́ váne vidé vásv índro magháir maghávā vṛtrahā́ bhúvat | ṛbhúr vā́ja ṛbhukṣā́ḥ patyate śávo 'vá kṣṇáumi dā́sasya nā́ma cit ||
Now his two tawny powers, found in the wood, discover the treasure; Indra becomes the bountiful by bounties, the slayer of the coverer. R̥bhu, Vāja, R̥bhukṣan—strength rules; I grind down even the very name of the hostile Dāsa.
हरी॒ इति॑ । नु । अ॒स्य॒ । या । वने॑ । वि॒दे । वसु॑ । इन्द्रः॑ । म॒घैः । म॒घऽवा॑ । वृ॒त्र॒ऽहा । भु॒व॒त् । ऋ॒भुः । वाजः॑ । ऋ॒भु॒क्षाः । प॒त्य॒ते॒ । शवः॑ । अव॑ । क्ष्णौ॒मि॒ । दास॑स्य । नाम॑ । चि॒त् ॥हरी इति । नु । अस्य । या । वने । विदे । वसु । इन्द्रः । मघैः । मघवा । वृत्रहा । भुवत् । ऋभुः । वाजः । ऋभुक्षाः । पत्यते । शवः । अव । क्ष्णौमि । दासस्य । नाम । चित् ॥harī iti | nu | asya | yā | vane | vide | vasu | indraḥ | maghaiḥ | magha-vā | vṛtra-hā | bhuvat | ṛbhuḥ | vājaḥ | ṛbhukṣāḥ | patyate | śavaḥ | ava | kṣṇaumi | dāsasya | nāma | c it