Sukta 10.23
यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्यं विव्रतानाम् । प्र श्मश्रु दोधुवदूर्ध्वथा भूद्वि सेनाभिर्दयमानो वि राधसा ॥
यजा॑मह॒ इन्द्रं॒ वज्र॑दक्षिणं॒ हरी॑णां र॒थ्यं१॒॑ विव्र॑तानाम् । प्र श्मश्रु॒ दोधु॑वदू॒र्ध्वथा॑ भू॒द्वि सेना॑भि॒र्दय॑मानो॒ वि राध॑सा ॥
yájāmaha índraṃ vájradakṣiṇaṃ hárīṇāṃ rathyáṃ vivrátānām | prá śmáśru dódhuvad ūrdhvathā́ bhūd ví senā́bhir dáyamāno ví rā́dhasā ||
We sacrifice to Indra whose right hand is the thunderbolt, the chariot-warrior of the tawny steeds that break through limits. His beard is shaken forth; he rises upward, distributing with his hosts, dividing out the riches (of force and fulfillment).
यजा॑महे । इन्द्र॑म् । वज्र॑ऽदक्षिणम् । हरी॑नाम् । र॒थ्य॑म् । विऽव्र॑तानाम् । प्र । श्मश्रु॑ । दोधु॑वत् । ऊ॒र्ध्वऽथा॑ । भू॒त् । वि । सेना॑भिः । दय॑मानः । वि । राध॑सा ॥यजामहे । इन्द्रम् । वज्रदक्षिणम् । हरीनाम् । रथ्यम् । विव्रतानाम् । प्र । श्मश्रु । दोधुवत् । ऊर्ध्वथा । भूत् । वि । सेनाभिः । दयमानः । वि । राधसा ॥yajāmahe | indram | vajra-dakṣiṇam | harīnām | rathyam | vi-vratānām | pra | śmaśru | dodhuvat | ūrdhva-thā | bhūt | vi | senābhiḥ | dayamānaḥ | vi | rādhasā