Sukta 10.22
त्वं त्या चिद्वातस्याश्वागा ऋज्रा त्मना वहध्यै । ययोर्देवो न मर्त्यो यन्ता नकिर्विदाय्यः ॥
त्वं त्या चि॒द्वात॒स्याश्वागा॑ ऋ॒ज्रा त्मना॒ वह॑ध्यै । ययो॑र्दे॒वो न मर्त्यो॑ य॒न्ता नकि॑र्वि॒दाय्य॑: ॥
tváṃ tyā́ cid vā́tasya aśvā́gā ṛjrā́ tmanā́ váhadhyai | yáyor devó ná mártyo yantā́ nákir vidā́yyaḥ ||
You indeed came with those wind-horses, straight and bright, by your own self-force, to carry us onward. Of those steeds no mortal, but only the divine, is the true driver; none can fully know their secret movement.
त्वम् । त्या । चि॒त् । वात॑स्य । अश्वा॑ । आ । अ॒गाः॒ । ऋ॒ज्रा । त्मना॑ । वह॑ध्यै । ययोः॑ । दे॒वः । न । मर्त्यः॑ । य॒न्ता । नकिः॑ । वि॒दाय्यः॑ ॥त्वम् । त्या । चित् । वातस्य । अश्वा । आ । अगाः । ऋज्रा । त्मना । वहध्यै । ययोः । देवः । न । मर्त्यः । यन्ता । नकिः । विदाय्यः ॥tvam | tyā | cit | vātasya | aśvā | ā | agāḥ | ṛjrā | tmanā | vahadhyai | yayoḥ | devaḥ | na | martyaḥ | yantā | nakiḥ | vidāyyaḥ